Wednesday, April 10, 2024

 ISHWARKRISHNA

ईश्वरकृष्णः

भारतीयज्ञानपरम्परायां सांख्यदर्शनं प्राचीनतमं दर्शनमस्ति । सांख्यशब्दस्य निष्पत्तिः सम् उपसर्गपूर्वकं ख्याधातोः सञ्जाता । अस्यार्थोऽस्तिसम्यग्विचाराणामुपस्थापकं शास्त्रम् ।अस्य सांख्यशास्त्रस्य प्रवर्तकः भगवान् कपिलः । भारतीयदर्शनसाहित्ये सांख्याचार्यः ईश्वरकृष्णः स्वप्रतिभया तुरीये राजते । तेन आर्याछन्दसा विरचिता सप्ततिश्लोकसमन्विता सांख्यकारिका सांख्यदर्शनस्य  एकः प्रकरणग्रन्थः । ईश्वरकृष्णः आर्यमतिरासीत् ।महामुनिकपिलतः आसुरिः ,आसुरितः पञ्चशिखः,पञ्चशिखतः शिष्यपरम्परया प्राप्तं  तत्त्वज्ञानं सांख्यकारिकायां निगदितमस्ति ।

एतत् पवित्रमग्र्यं मुनिरासुरयेऽनुकम्पया प्रददौ ।

आसुरिरपि पञ्चशिखाय तेन बहुधाकृतं तन्त्रम् ॥

शिष्यपरम्परयागतमीश्वरकृष्णेन चैतदार्याभिः।

सङ्क्षिप्तमार्यमतिना सम्यग्विज्ञाय सिद्धान्तम् ॥

सांख्याचार्यस्य ईश्वरकृष्णस्य स्थितिकालः ईस्वीपूर्व द्वितीयशताब्दी इति मन्यते । पञ्चशिखस्य पश्चात् ईश्वरकृष्ण एव सर्वसम्मतः सांख्यतत्त्ववेत्ताऽस्ति । षष्टितन्त्रस्य आधारं गृहीत्वा अनेन सांख्यकारिका विरचिता। सांख्यकारिका वर्तमाने सर्वाधिकलोकप्रियः ग्रन्थोऽस्ति । इयमेव रचना कनकसप्तति सांख्यसप्तति सुवर्णसप्तति चापि उच्यते ।

ईश्वरकृष्णस्य ग्रन्थस्योपरि आचार्यगौडपादस्य गौडपादभाष्यमुपलभ्यते । सांख्यकारिकायाः अनेके टीकाग्रन्थाः अपि विद्यन्ते । वाचस्पतिमिश्रस्य सांख्यतत्त्वकौमुदी, माठराचार्यस्य माठरवृत्तिः, शङ्कराचार्यस्य जयमङ्गलाटीका टीकाग्रन्थेषु विशिष्टा वर्तन्ते। नारायणतीर्थविरचिता चन्द्रिकाटीका, हरिहरारण्यककृता सांख्ययोगसरलाख्या बँगलाटीका, युक्तिदीपिका टीका चापि सम्प्रति उपलभ्यन्ते ।