Tuesday, June 6, 2023

अनात्मनीव आत्मन्यपि आवरणाभावशङ्कामुद्भाव्य विवरणकारदिशा अस्याः शङ्कायाः समाधानम्

 





*अनात्मनीव आत्मन्यपि आवरणाभावशङ्कामुद्भाव्य विवरणकारदिशा अस्याः शङ्कायाः समाधानम् 

             यदि आत्माश्रयम्  अज्ञानम् अनात्मावरणम् स्यात् तदा, आवरणविनाशम् अन्तरेण विषयावभासायोगात् विषयज्ञानेन आत्मज्ञानम् निवर्तते     अतः सत्यामेवात्मन्यविद्यायां त्रिषु अपि कालेषु विषयस्वरूपप्रतिभासदर्शनात् ,न अनात्मावरणम् अज्ञानमिति तात्पर्यं निरूप्य पञ्चपादिकाविवरणकारेण प्रकाशात्मयतिना  पुनः शङ्का क्रियते -                                                                                                                         

नन्वेवमात्मन्यप्यज्ञाननिमित्तमावरणकृत्यं नास्ति, कथम् ? न तावदावरणं प्रकाशविलोपः; स्वरूपस्यानपायात्। नापि सत एव प्रकाशस्य कार्यप्रतिबन्धः; ज्ञानस्य विषयावभासात्मनोदितस्य स्वकार्ये प्रतिबन्धप्रतीक्षयोरभावात् । तस्मान्नैवात्मन्यपि भावरूपमज्ञानमनुपयोगादिति; तत्राह - प्रत्यगात्मनि तु चितिस्वभावत्वात् स्वयंप्रकाशमाने- इत्यादिना तस्य अनवभासः - इत्यन्तेन ग्रन्थेन ।

अयमर्थ:- 'अस्ति प्रकाशते' इत्याद्यभिज्ञादिव्यवहारं प्रति पुष्कलकारणे सति 'नास्ति न प्रकाशते च' इति योऽयमात्मतत्त्वालम्बनो व्यवहारः, सः भावरूपेण केनचिदात्मनि आवरणमन्तरेण नोपपद्यते, सति पुष्कलकारणे, असति च आवरणे, सन्निहिते घटे 'प्रकाशते' इत्यादिव्यवहारदर्शनात्। अतो 'नास्ति ब्रह्म न प्रकाशते च' इति व्यवहारोऽन्यथानुपपत्त्या भावरूपमज्ञानं गमयतीत्यर्थापत्तिः, अनुमानं वा समुदायार्थः ।

तत्सिद्ध्यर्थमात्मनि 'प्रकाशते' इत्यादिव्यवहारं प्रति पुष्कलकारणतां दर्शयति- चितिस्वभावत्वादिति । किं तर्हि-आवरणमिति ? तत्राह-ब्रह्मस्वरूपानवभासस्य-इति । 'नास्ति न प्रकाशते' इति व्यावहारालम्बनयोग्यत्वस्य व्यवहारकार्यदर्शनादेव कल्प्यमानस्य इत्यर्थः । न चाधिष्ठानप्रतिबन्धमन्तरेण तत्र विपर्ययकार्यमुपपद्यते। अविद्यासम्बन्धादेव आवरणस्यानिरूपिताकारता च युक्तेति भावः । ननु प्रमाणवैकल्यादेवात्राप्यग्रहणमिति; नेत्याह – अनन्यनिमित्तत्वात् - इति । अतोऽनवभासापुष्क लकारणे परिशेषादिदमायातमित्याह-तद्गतनिसर्गसिद्धाविद्याशक्तिप्रतिबन्धादेव तस्यानवभास इति । मूर्तद्रव्यान्तरस्यासम्भवादिति भावः । अतः कार्यदर्शनोन्नेयं आवरणकृत्यं विपर्ययं चात्मनि कुर्वाणमज्ञानं भावरूपमेवोभयकारणत्वान्यथानुपपत्त्या कल्प्यत इत्याह- अतः सा प्रत्यक्चिति-इति ।

श्रीमदखण्डानन्दमुनिना विवरणटीकाकारमनुसृत्य   तत्त्वदीपनटीकायां स्वमतं दीयते-अनात्मवदात्मनोऽज्ञानविषयत्वानुपपत्तिस्तज्जनितातिशयानिरूपणाद् ? इति शङ्कते - नन्वेवमिति ॥ अज्ञानैक्ये - ऽपीत्यर्थः, अनात्माऽऽवरणं विना तत्र विक्षेपसम्भवेऽपीति वा ।। अज्ञानं निमित्तं यस्य तदज्ञाननिमित्तम् । आवरणं च तत्कृत्यं चेत्यावरणकृत्यम् । ननु अनात्मनि प्रकाशाप्रसक्त्या आवरणानुपपत्तावप्यात्मनि स्फुरद्रूप आवरणं सम्भवतीति चोदयति- । कथमिति ॥ तत्र वक्तव्यम् - किमावरणं प्रकाशनाशः ? उत तत्कार्यप्रतिबन्धः ? इति । तत्राऽऽद्यं दूषयति- न तावदिति ॥ "न हि द्रष्टुर्दृष्टेविपरिलोपो विद्यते" इति स्वरूपानपायप्रतिपत्तेः स्वरूपविनाश आत्मनोऽपि विनाशप्रसङ्गाच्च नाऽऽद्यः पक्षोयुक्त इत्यर्थः ।

द्वितीयं निरस्यति नापीति ॥ विषयस्य स्फुरणं कार्यम्, विषयावभासात्मनोत्पन्नत्वान्न तत्प्रतिबन्धुं शक्यते इत्यर्थः। नयनादिकारकाणां सहकारिप्रतीक्षया कार्यकरत्ववद् ज्ञानस्यापि कार्यजनने कारकत्वात्सहकार्यपेक्षा, ततश्च प्रति- बन्धसम्भव इति शङ्कां व्यावर्तयति - प्रतीति ॥ ज्ञानस्य कारकत्वे सहकार्यपेक्षा, तदेवासिद्धम्, कार्यं कुर्वाणं कारकमित्युच्यते, न चेदमर्थाश्रयमतिशयमादधाति प्रध्वस्तादिषु तदसम्भवादित्यर्थः । आवरणासम्भवफलमाह तस्मादिति ॥ ननु प्रत्यक्षादिनाऽजानमसाधि, अतः कथमाक्षेप इति ? तत्राह - अनुपयोगादिति ॥ नाज्ञानमदृष्टार्थम्, किंत्वावरणार्थम्, तच्चोक्त- विधया दुर्निरूपमिति, कथमज्ञानसिद्धिरित्यर्थः

आवरणाभावे नित्यंमुक्तत्वप्रगङ्गात् तदेष्टव्यमिति समाधत्ते – तत्राहेति ॥ अवारणदुनिरुपत्वे चोदिते तत्प्रति- समाधेयम्, नच प्रतिसमाधीयते; नचानवभासस्याऽऽवरण कल्पकत्वम्, पुरुषान्तरसंवेदने व्यभिचारात्, 'प्रत्यगात्मनी 'ति विशेषणकृत्यं च न पश्याम इत्याशङ्कय तात्पर्यमाह - अयमर्थ इति ॥ 'नास्ति न प्रकाशते चेति योऽयमात्मालम्बनो व्यवहारः, स आत्मन्यावरणमन्तरेण नोपपद्यत इति सम्बन्धः । नचैवंविधो व्यवहारोऽस्ति; अहमिति सत्तास्फूर्तिदर्शना- दित्याशङ्कय कर्त्राद्यात्मकव्यवहारेऽप्यशनायाद्यतीतात्मनि नैवंविधो व्यवहार इत्याह- आत्मतत्त्वेति ॥ आवरणमन्तरेणापि पुरुषान्तरसंवेदनवत् तथा व्यवहारोपपत्तिरित्याशङ्कयाह-अस्ति प्रकाशत इति । अभावस्याऽऽवारकत्वं व्यावर्तयितुम् - भावरूपेणेत्युक्तम् ॥ आवरणाभावेऽप्येवंविधो व्यवहारः किं न स्यात् ? इत्याशङ्कयाह —सति पुष्कलकारण इत्यादिना ॥

सन्निहितेऽप्यर्थे कुड्यादिनावृते 'प्रकाशते' इति व्यवहाराभावः, तदर्थम् — असति चेति ॥ एवमपीन्द्रियसंयोगाद्यभावे नैतादृशो व्यवहारः, तदर्थमाह-सति पुष्कलेति ॥ इन्द्रियसंयोगमात्रं पुष्कल कारणशब्दार्थः। मा भूत् तर्हि व्यवहारः ? इत्याशङ्कय तस्योप- लभ्यमानत्वादावरणं कल्प्यमित्याह - अत इति ॥ अनुमानं वेत्यस्यायमर्थः - विमतो व्यवहारः, भावरूपाज्ञानप्रयुक्तावरणनिमित्तः, 'अस्ति प्रकाशते' इति व्यवहारपुष्कलकारणे सति तद्विपरीतव्यवहारत्वात्; यन्नैवं न तदेवम्, यथा 'अस्ति प्रकाशते घटः' इति व्यवहार इति ।। एवं तात्पर्यमभिधायाक्षरार्थं दर्शयति- 'तत्सिद्धयर्थमि' त्यादिना 'प्रत्यकचिती'त्यन्तेन ग्रन्थेन|| विशेषणवैयर्थ्य- मित्युक्तम्, तन्निरस्यति-तत्सिद्ध्यर्थमिति ॥ अर्थापत्त्यनुमाने तच्छब्दार्थः। जडे वस्तुन्यनवभासोऽग्रहणनिमित्तः, न तथात्मनि; स्वप्रकाशत्वादित्यर्थः । आवरणं दुर्निरूपमित्युक्तमनुवदति - कि तहोति ॥ अनवभास एव दुर्निरूप इति ? तत्राह - नास्तीति ॥ योग्यतायाः कल्पकमाह-व्यवहारेति ॥ अनात्मनि प्रतिबन्धमन्तरेण विक्षेपवदात्मनि विक्षेपोऽस्तु किं प्रतिबन्धेनेत्याशङ्कयान- वच्छिन्नसंविद्रूपाऽऽनन्दात्मनि प्रतिबन्धं विना विक्षेप एव नोल्लसति । अन्यत्र स्वत एव प्रतिबद्धत्वान्न प्रतिबन्धापेक्षेत्याह- नचेति ॥ आत्मा स्फुरद्रूप आवृत इत्येतद्विरुद्धमित्याशङ्कय, किमावरणप्रतीतिनिरस्यते ? उत यौक्तिकत्वम् ? नान्त्यः; अङ्गीकृतेः,इत्याह-अविद्येति ॥ चशब्देनाप्रतीतिपक्षं निरस्यति। अहमज्ञो, मामन्यं च न जानामीत्यावरणानुभवान्न तन्निरास इत्यर्थः ।

 तत्र भिन्नत्वात् प्रमाण वैकल्यादग्रहण स्वयंप्रकाशेऽपि पुरुषान्तरसंवेदने यथाऽग्रहणम्, तद्वदत्रापीत्याह - ननु प्रमाणेति ॥ युक्तम्, अत्र तु ब्रह्मणः प्रत्यक्त्वान्मैवमित्याह — नेत्याहेति ॥ अज्ञानादन्यद् निमित्तं यस्य न विद्यते तदनन्यनिमित्तम्, तथ्य भावस्तत्त्वस्; तस्मादित्यर्थः । हेत्वसिद्धिमुक्तां निरस्यति-अत इति ॥ निमित्तान्तरदुर्निरूपत्वम् अतःशब्दार्थः । कुञ्ज्यादेरपि व्यवधायकत्वदर्शनात् कथमज्ञानमेव व्यवधायकम् ? तत्राह — मूर्तेति ॥ ब्रह्मणः प्रत्यक्स्वरूपत्वान्न मूर्तद्रव्यं तद्व्यवधायक- मित्यर्थः ॥ तथाऽपि कथं भावरूपाज्ञानसिद्धिरित्याशङ्कयाह – अत इति ॥ भावरूपेणेत्यत्र तात्पर्यार्थः कथितः, - अत्र त्वक्षरार्थं इत्यपौनरुक्त्यम् ।

 

************

No comments:

Post a Comment