मिथ्या शब्दस्योपरि टीका
(पञ्चपादिकामनुसृत्य)
मिथ्या, व्य,(मथते इति । मथविलोडने । मेथते हिनस्ति वेति । मथ वा मेथ + क्यप् । निपा- तनात् साधु ।) असत्यम् -इति शब्दकल्पद्रुमः । पञ्चपादिकायाम् अध्यासवर्णनाप्रसङ्गे पद्मपादाचार्येण मिथ्याशब्दस्याविर्भावं क्रियते । तत्र अध्यासो नाम -अतद्रूपे तद्रूपाभासः । सः मिथ्येति भवितुं युक्तम् इति । मिथ्याशब्दो द्व्यर्थः-अपन्ह्ववचनः अनिर्वचनीयतावचनश्च ।
अपन्ह्ववचनः -असत्यमित्युक्त्वा वस्तुनः स्वरूपस्य लोपस्तुः अपन्ह्ववचनः।
अनिर्वचनीयतावचनः -सत्त्वे वाधः न स्यात् ;असत्त्वे अपरोक्षत्वप्रथा न स्यात् इति अनिर्वचनीयतावचनः । चित्सुखग्रन्थे अनिर्वचनीयशब्दस्य व्याख्या एवम्प्रकारेण दीयते-
प्रत्येकं सदसद्भ्यां विचारपदवीं न यत् ।
गाहते तदनिर्वाच्यम् आहुः वेदान्तवेदिनः । ।
अत्र अयमपन्ह्ववचनः । मिथ्येति भवितुं युक्तम् -अभाव एवाध्यासस्य युक्तः इत्यर्थः । यद्यप्येवं ,तथापि नैसर्गिकः प्रत्यक्चैतन्यसत्तामात्रानुबन्धी ।अध्यासस्य अज्ञानोपादानत्व प्रदिदर्शयिषया "मिथ्या अज्ञाननिमित्तः” इत्युक्तम् । मिथ्या च तदज्ञानं च मिथ्याज्ञानम् । मिथ्येति अनिर्वचनीयता उच्यते । अज्ञानमिति च जडात्मिकाऽविद्याशक्तिर्ज्ञानपर्युवासेनोच्यते ।
ⒸJAYANTA MANDAL
Thank you Sir
ReplyDelete