*अनात्मनीव आत्मन्यपि आवरणाभावशङ्कामुद्भाव्य विवरणकारदिशा
अस्याः शङ्कायाः समाधानम्
यदि आत्माश्रयम् अज्ञानम् अनात्मावरणम् स्यात् तदा, आवरणविनाशम्
अन्तरेण विषयावभासायोगात् विषयज्ञानेन आत्मज्ञानम् निवर्तते । अतः
सत्यामेवात्मन्यविद्यायां त्रिषु अपि कालेषु विषयस्वरूपप्रतिभासदर्शनात् ,न
अनात्मावरणम् अज्ञानमिति तात्पर्यं निरूप्य पञ्चपादिकाविवरणकारेण प्रकाशात्मयतिना पुनः
शङ्का क्रियते -
नन्वेवमात्मन्यप्यज्ञाननिमित्तमावरणकृत्यं नास्ति,
कथम् ?
न तावदावरणं प्रकाशविलोपः;
स्वरूपस्यानपायात्। नापि सत
एव प्रकाशस्य कार्यप्रतिबन्धः; ज्ञानस्य विषयावभासात्मनोदितस्य स्वकार्ये
प्रतिबन्धप्रतीक्षयोरभावात् । तस्मान्नैवात्मन्यपि भावरूपमज्ञानमनुपयोगादिति;
तत्राह - प्रत्यगात्मनि तु
चितिस्वभावत्वात् स्वयंप्रकाशमाने- इत्यादिना तस्य अनवभासः - इत्यन्तेन ग्रन्थेन ।
अयमर्थ:- 'अस्ति प्रकाशते' इत्याद्यभिज्ञादिव्यवहारं प्रति पुष्कलकारणे सति 'नास्ति न प्रकाशते च' इति योऽयमात्मतत्त्वालम्बनो व्यवहारः,
सः भावरूपेण केनचिदात्मनि
आवरणमन्तरेण नोपपद्यते, सति
पुष्कलकारणे, असति
च आवरणे, सन्निहिते
घटे 'प्रकाशते'
इत्यादिव्यवहारदर्शनात्। अतो
'नास्ति
ब्रह्म न प्रकाशते च' इति
व्यवहारोऽन्यथानुपपत्त्या भावरूपमज्ञानं गमयतीत्यर्थापत्तिः,
अनुमानं वा समुदायार्थः ।
तत्सिद्ध्यर्थमात्मनि 'प्रकाशते' इत्यादिव्यवहारं प्रति पुष्कलकारणतां दर्शयति-
चितिस्वभावत्वादिति । किं तर्हि-आवरणमिति ? तत्राह-ब्रह्मस्वरूपानवभासस्य-इति । 'नास्ति न प्रकाशते' इति व्यावहारालम्बनयोग्यत्वस्य व्यवहारकार्यदर्शनादेव
कल्प्यमानस्य इत्यर्थः । न चाधिष्ठानप्रतिबन्धमन्तरेण तत्र विपर्ययकार्यमुपपद्यते।
अविद्यासम्बन्धादेव आवरणस्यानिरूपिताकारता च युक्तेति भावः । ननु
प्रमाणवैकल्यादेवात्राप्यग्रहणमिति; नेत्याह – अनन्यनिमित्तत्वात् - इति । अतोऽनवभासापुष्क
लकारणे परिशेषादिदमायातमित्याह-तद्गतनिसर्गसिद्धाविद्याशक्तिप्रतिबन्धादेव
तस्यानवभास इति । मूर्तद्रव्यान्तरस्यासम्भवादिति भावः । अतः कार्यदर्शनोन्नेयं
आवरणकृत्यं विपर्ययं चात्मनि कुर्वाणमज्ञानं भावरूपमेवोभयकारणत्वान्यथानुपपत्त्या
कल्प्यत इत्याह- अतः सा प्रत्यक्चिति-इति ।
श्रीमदखण्डानन्दमुनिना विवरणटीकाकारमनुसृत्य तत्त्वदीपनटीकायां स्वमतं दीयते-अनात्मवदात्मनोऽज्ञानविषयत्वानुपपत्तिस्तज्जनितातिशयानिरूपणाद् ? इति शङ्कते - नन्वेवमिति ॥ अज्ञानैक्ये - ऽपीत्यर्थः, अनात्माऽऽवरणं विना तत्र विक्षेपसम्भवेऽपीति वा ।। अज्ञानं निमित्तं यस्य तदज्ञाननिमित्तम् । आवरणं च तत्कृत्यं चेत्यावरणकृत्यम् । ननु अनात्मनि प्रकाशाप्रसक्त्या आवरणानुपपत्तावप्यात्मनि स्फुरद्रूप आवरणं सम्भवतीति चोदयति- । कथमिति ॥ तत्र वक्तव्यम् - किमावरणं प्रकाशनाशः ? उत तत्कार्यप्रतिबन्धः ? इति । तत्राऽऽद्यं दूषयति- न तावदिति ॥ "न हि द्रष्टुर्दृष्टेविपरिलोपो विद्यते" इति स्वरूपानपायप्रतिपत्तेः स्वरूपविनाश आत्मनोऽपि विनाशप्रसङ्गाच्च नाऽऽद्यः पक्षोयुक्त इत्यर्थः ।
द्वितीयं निरस्यति नापीति ॥ विषयस्य स्फुरणं कार्यम्,
विषयावभासात्मनोत्पन्नत्वान्न
तत्प्रतिबन्धुं शक्यते इत्यर्थः। नयनादिकारकाणां सहकारिप्रतीक्षया कार्यकरत्ववद्
ज्ञानस्यापि कार्यजनने कारकत्वात्सहकार्यपेक्षा, ततश्च प्रति- बन्धसम्भव इति शङ्कां व्यावर्तयति - प्रतीति ॥
ज्ञानस्य कारकत्वे सहकार्यपेक्षा, तदेवासिद्धम्, कार्यं कुर्वाणं कारकमित्युच्यते,
न चेदमर्थाश्रयमतिशयमादधाति
प्रध्वस्तादिषु तदसम्भवादित्यर्थः । आवरणासम्भवफलमाह तस्मादिति ॥ ननु
प्रत्यक्षादिनाऽजानमसाधि, अतः कथमाक्षेप इति ? तत्राह - अनुपयोगादिति ॥ नाज्ञानमदृष्टार्थम्,
किंत्वावरणार्थम्,
तच्चोक्त- विधया
दुर्निरूपमिति, कथमज्ञानसिद्धिरित्यर्थः
आवरणाभावे नित्यंमुक्तत्वप्रगङ्गात् तदेष्टव्यमिति समाधत्ते
– तत्राहेति ॥ अवारणदुनिरुपत्वे चोदिते तत्प्रति- समाधेयम्,
नच प्रतिसमाधीयते;
नचानवभासस्याऽऽवरण
कल्पकत्वम्, पुरुषान्तरसंवेदने
व्यभिचारात्, 'प्रत्यगात्मनी
'ति
विशेषणकृत्यं च न पश्याम इत्याशङ्कय तात्पर्यमाह - अयमर्थ इति ॥ 'नास्ति न प्रकाशते चेति योऽयमात्मालम्बनो व्यवहारः,
स आत्मन्यावरणमन्तरेण
नोपपद्यत इति सम्बन्धः । नचैवंविधो व्यवहारोऽस्ति; अहमिति सत्तास्फूर्तिदर्शना- दित्याशङ्कय
कर्त्राद्यात्मकव्यवहारेऽप्यशनायाद्यतीतात्मनि नैवंविधो व्यवहार इत्याह-
आत्मतत्त्वेति ॥ आवरणमन्तरेणापि पुरुषान्तरसंवेदनवत् तथा
व्यवहारोपपत्तिरित्याशङ्कयाह-अस्ति प्रकाशत इति । अभावस्याऽऽवारकत्वं
व्यावर्तयितुम् - भावरूपेणेत्युक्तम् ॥ आवरणाभावेऽप्येवंविधो व्यवहारः किं न
स्यात् ? इत्याशङ्कयाह
—सति पुष्कलकारण इत्यादिना ॥
सन्निहितेऽप्यर्थे कुड्यादिनावृते 'प्रकाशते' इति व्यवहाराभावः, तदर्थम् — असति चेति ॥ एवमपीन्द्रियसंयोगाद्यभावे नैतादृशो
व्यवहारः, तदर्थमाह-सति
पुष्कलेति ॥ इन्द्रियसंयोगमात्रं पुष्कल कारणशब्दार्थः। मा भूत् तर्हि व्यवहारः ?
इत्याशङ्कय तस्योप-
लभ्यमानत्वादावरणं कल्प्यमित्याह - अत इति ॥ अनुमानं वेत्यस्यायमर्थः - विमतो
व्यवहारः, भावरूपाज्ञानप्रयुक्तावरणनिमित्तः,
'अस्ति प्रकाशते'
इति व्यवहारपुष्कलकारणे सति
तद्विपरीतव्यवहारत्वात्; यन्नैवं
न तदेवम्, यथा
'अस्ति
प्रकाशते घटः' इति
व्यवहार इति ।। एवं तात्पर्यमभिधायाक्षरार्थं दर्शयति- 'तत्सिद्धयर्थमि' त्यादिना 'प्रत्यकचिती'त्यन्तेन ग्रन्थेन|| विशेषणवैयर्थ्य- मित्युक्तम्, तन्निरस्यति-तत्सिद्ध्यर्थमिति ॥ अर्थापत्त्यनुमाने
तच्छब्दार्थः। जडे वस्तुन्यनवभासोऽग्रहणनिमित्तः, न तथात्मनि; स्वप्रकाशत्वादित्यर्थः । आवरणं दुर्निरूपमित्युक्तमनुवदति
- कि तहोति ॥ अनवभास एव दुर्निरूप इति ? तत्राह - नास्तीति ॥ योग्यतायाः कल्पकमाह-व्यवहारेति ॥
अनात्मनि प्रतिबन्धमन्तरेण विक्षेपवदात्मनि विक्षेपोऽस्तु किं
प्रतिबन्धेनेत्याशङ्कयान- वच्छिन्नसंविद्रूपाऽऽनन्दात्मनि प्रतिबन्धं विना विक्षेप
एव नोल्लसति । अन्यत्र स्वत एव प्रतिबद्धत्वान्न प्रतिबन्धापेक्षेत्याह- नचेति ॥
आत्मा स्फुरद्रूप आवृत इत्येतद्विरुद्धमित्याशङ्कय, किमावरणप्रतीतिनिरस्यते ? उत यौक्तिकत्वम् ? नान्त्यः; अङ्गीकृतेः,इत्याह-अविद्येति ॥ चशब्देनाप्रतीतिपक्षं निरस्यति। अहमज्ञो,
मामन्यं च न
जानामीत्यावरणानुभवान्न तन्निरास इत्यर्थः ।
तत्र भिन्नत्वात्
प्रमाण वैकल्यादग्रहण स्वयंप्रकाशेऽपि पुरुषान्तरसंवेदने यथाऽग्रहणम्,
तद्वदत्रापीत्याह - ननु
प्रमाणेति ॥ युक्तम्, अत्र
तु ब्रह्मणः प्रत्यक्त्वान्मैवमित्याह — नेत्याहेति ॥ अज्ञानादन्यद् निमित्तं यस्य
न विद्यते तदनन्यनिमित्तम्, तथ्य भावस्तत्त्वस्; तस्मादित्यर्थः । हेत्वसिद्धिमुक्तां निरस्यति-अत इति ॥
निमित्तान्तरदुर्निरूपत्वम् अतःशब्दार्थः । कुञ्ज्यादेरपि व्यवधायकत्वदर्शनात्
कथमज्ञानमेव व्यवधायकम् ? तत्राह — मूर्तेति ॥ ब्रह्मणः प्रत्यक्स्वरूपत्वान्न
मूर्तद्रव्यं तद्व्यवधायक- मित्यर्थः ॥ तथाऽपि कथं
भावरूपाज्ञानसिद्धिरित्याशङ्कयाह – अत इति ॥ भावरूपेणेत्यत्र तात्पर्यार्थः कथितः,
- अत्र त्वक्षरार्थं
इत्यपौनरुक्त्यम् ।
************
