·
मङ्गलाचरणम् अकुर्वन् भाष्यकारः उल्लङ्घितशिष्टाचारः -अस्याः शङ्कायाः निरसनम्
|
कार्यारम्भे मङ्गलाचरणम् भारतीयशिष्टाचाररूपेण परिगण्यते । अविगीतशिष्टाचारत्वात् अस्यानुसरणम् करणीयम् । भगवान्-शङ्कराचार्येण
अध्यासभाष्ये मङ्गलाचरणमकृतम्, पूर्वपक्षरूपेण इत्याशङ्कायाः उपस्थापनं कृत्वा
पञ्चपादिकाकारेण पद्मपादाचार्येण शङ्का क्रियते -
ननु च ग्रन्थकरणादिकार्यारम्भे कार्यानुरूपं
इष्टदेवतापूजानमस्कारेण बुद्धिसन्निधापिताथवृद्धयादिशब्दैः दध्यादिदर्शनेन वा
कृतमङ्गलाः शिष्टाः प्रवर्तन्ते । शिष्टाचारश्च नः
प्रमाणम् । प्रसिद्धं च मङ्गलाचरणस्य विघ्नोपशमनं प्रयोजनम् । महति च
निःश्रेयसप्रयोजने ग्रन्थमारभमाणस्य विघ्नबाहुल्यं सम्भाव्यते । प्रसिद्धं च 'श्रेयांसि बहुविघ्नानि' इति। विज्ञायते च 'तस्मादेषां तन्न प्रियं यदेतन्मनुष्या विद्युः'
इति,
येषां च यन्न
प्रियं ते तद्विघ्नन्तीति प्रसिद्धं लोके । तत् कथमुल्लङ्घ्य शिष्टाचारं अकृतमङ्गल
एव विस्त्रब्धं भाष्यकारः प्रववृते ? अत्रोच्यते - युष्मदस्मद् इत्यादि तद्धर्माणामपि
सुतरामितरेतरभावानुपपत्तिः इत्यन्तमेव भाष्यम् । अस्य च अयमर्थः – सर्वोपप्लवरहितो
विज्ञानघनः प्रत्यगर्थः इति ।
"तत् कथञ्चन परमार्थतः एवम्भूते वस्तुनि रूपान्तरवदवभासो
मिथ्येति कथयितुम् । तदन्यपरादेव भाष्यवाक्यात् निरस्तसमस्तोपप्लवं
चैतन्यैकतानमात्मानं प्रतिपद्यमानस्य कुतो विघ्नोपप्लवसम्भवः । तस्मात् अग्रणीः
शिष्टाचारपरिपालने भगवान् भाष्यकारः ।
अत्र विवरणटीकाकारः प्रकाशात्मयतिः पञ्चपादिकामनुसृत्य स्वाभिमतं
ज्ञापयति - नन्वेवमपि
न व्याख्येयमिदं भाष्यम्, शास्त्रादौ मङ्गलाचरणाभावात्, विघ्नोपसंसृष्टतया शास्त्रार्थेऽप्रतिपत्यन्यथाप्रतिपत्ति-विप्रतिपत्तिसम्भवात्,
शिष्टाचारपरिपालनहीनतया
चा- नाप्तप्रणीतत्वप्रसङ्गादिति चोदयति- ननु च ग्रन्थकरणादिकार्यारम्भ इति । ननु
शिष्टानां निष्ठीवनादिप्रवृत्तिः किमन्येनानुसरणीयेति ?
नेत्याह -
शिष्टाचारश्च नः प्रमाणमिति। आचारः इति धर्म इत्येवानुष्ठीयमानं कर्म,
प्रमाणं-
कर्तव्यमित्यर्थः । ननु प्रयोजनाभावात् किं मङ्गलाचरणेनेति ?
नेत्याह -
प्रसिद्धं च मङ्गलाचरणस्येति । ननु अत्र विघ्न एव नास्ति अल्पारम्भत्वादिति ?
नेत्याह - महति
चेति । ननु सम्भावनामात्रान्न प्रवृत्तिः विघ्नशान्तये,
किन्तु
निश्चयादिति; अत्राह - प्रसिद्धं चेति । ननु लोकप्रसिद्धिर्निमूला न
विघ्ननिश्चयहेतुः, इत्यत आह-विज्ञायते चेति । उपसंहरति-तत् कथमिति ।
सर्वदा सर्वकार्येषु नास्ति तेषाममङ्गलम् ।
येषां हृदिस्थो भगवान् मङ्गलायतनं हरिः ॥
इति स्मृतेः, शिष्टाचारपरिपालनाय विघ्नोपशान्तये च
विशिष्टदेवतातत्त्वानुस्मरणलक्षणं मङ्गलाचरणं कृतमित्याह- अत्रोच्यत इति । किं
तत्र प्रमाणमिति ? अत आह- युष्मदस्मदित्यादीति । इत्यन्तमेव भाष्यं
प्रमाणमित्यर्थः, मङ्गलाचरणमिति वा ।
कथमिदं विशिष्टदेवतानुस्मरणं गमयतीति ?
तत्राह - अस्य
चायमर्थ इति । ननु ने विशुद्धात्मतत्त्वदेवता अनुस्मर्यते,
किन्त्वध्यासाभावो
वर्ण्यत इति । सत्यम् । तादर्थ्ये तत्त्वमप्यनुस्मर्यत इत्याह- तत् कथंचन इति ।
ननु अन्यपरत्वात् देवतानुस्मृतिरविवक्षित न कार्यकरीति;
नेत्याह -
तदन्यपरादेवेति । अन्यार्थमपि देवतानुस्मरणं स्वभावादेव विघ्नोपपूवं धक्ष्यति,
धूमार्थ इव
वह्निः तृणादिकमित्यभिप्रायः । व्याख्येयत्व प्रतिपादितमुपसंहरति—–तस्मादिति ।
अन्यार्थप्रवृत्तेन 'युष्मदस्मदि 'त्यादिपदद्वयमर्थाद् व्याख्यातम्।
****************
No comments:
Post a Comment