Saturday, June 3, 2023

मङ्गलाचरणम् अकुर्वन् भाष्यकारः उल्लङ्घितशिष्टाचारः -अस्याः शङ्कायाः निरसनम् |

 

·       मङ्गलाचरणम् अकुर्वन् भाष्यकारः उल्लङ्घितशिष्टाचारः -अस्याः शङ्कायाः निरसनम् |

 

कार्यारम्भे मङ्गलाचरणम् भारतीयशिष्टाचाररूपेण परिगण्यते अविगीतशिष्टाचारत्वात् अस्यानुसरणम् करणीयम् भगवान्-शङ्कराचार्येण अध्यासभाष्ये मङ्गलाचरणमकृतम्, पूर्वपक्षरूपेण इत्याशङ्कायाः उपस्थापनं कृत्वा पञ्चपादिकाकारेण पद्मपादाचार्येण शङ्का क्रियते -   

ननु च ग्रन्थकरणादिकार्यारम्भे कार्यानुरूपं इष्टदेवतापूजानमस्कारेण बुद्धिसन्निधापिताथवृद्धयादिशब्दैः दध्यादिदर्शनेन वा कृतमङ्गलाः शिष्टाः प्रवर्तन्ते शिष्टाचारश्च नः प्रमाणम् । प्रसिद्धं च मङ्गलाचरणस्य विघ्नोपशमनं प्रयोजनम् । महति च निःश्रेयसप्रयोजने ग्रन्थमारभमाणस्य विघ्नबाहुल्यं सम्भाव्यते । प्रसिद्धं च 'श्रेयांसि बहुविघ्नानि' इति। विज्ञायते च 'तस्मादेषां तन्न प्रियं यदेतन्मनुष्या विद्युः' इति, येषां च यन्न प्रियं ते तद्विघ्नन्तीति प्रसिद्धं लोके । तत् कथमुल्लङ्घ्य शिष्टाचारं अकृतमङ्गल एव विस्त्रब्धं भाष्यकारः प्रववृते ? अत्रोच्यते - युष्मदस्मद् इत्यादि तद्धर्माणामपि सुतरामितरेतरभावानुपपत्तिः इत्यन्तमेव भाष्यम् । अस्य च अयमर्थः – सर्वोपप्लवरहितो विज्ञानघनः प्रत्यगर्थः इति ।

"तत् कथञ्चन परमार्थतः एवम्भूते वस्तुनि रूपान्तरवदवभासो मिथ्येति कथयितुम् । तदन्यपरादेव भाष्यवाक्यात् निरस्तसमस्तोपप्लवं चैतन्यैकतानमात्मानं प्रतिपद्यमानस्य कुतो विघ्नोपप्लवसम्भवः । तस्मात् अग्रणीः शिष्टाचारपरिपालने भगवान् भाष्यकारः ।

अत्र विवरणटीकाकारः प्रकाशात्मयतिः पञ्चपादिकामनुसृत्य स्वाभिमतं ज्ञापयति - नन्वेवमपि न व्याख्येयमिदं भाष्यम्, शास्त्रादौ मङ्गलाचरणाभावात्, विघ्नोपसंसृष्टतया शास्त्रार्थेऽप्रतिपत्यन्यथाप्रतिपत्ति-विप्रतिपत्तिसम्भवात्, शिष्टाचारपरिपालनहीनतया चा- नाप्तप्रणीतत्वप्रसङ्गादिति चोदयति- ननु च ग्रन्थकरणादिकार्यारम्भ इति । ननु शिष्टानां निष्ठीवनादिप्रवृत्तिः किमन्येनानुसरणीयेति ? नेत्याह - शिष्टाचारश्च नः प्रमाणमिति। आचारः इति धर्म इत्येवानुष्ठीयमानं कर्म, प्रमाणं- कर्तव्यमित्यर्थः । ननु प्रयोजनाभावात् किं मङ्गलाचरणेनेति ? नेत्याह - प्रसिद्धं च मङ्गलाचरणस्येति । ननु अत्र विघ्न एव नास्ति अल्पारम्भत्वादिति ? नेत्याह - महति चेति । ननु सम्भावनामात्रान्न प्रवृत्तिः विघ्नशान्तये, किन्तु निश्चयादिति; अत्राह - प्रसिद्धं चेति । ननु लोकप्रसिद्धिर्निमूला न विघ्ननिश्चयहेतुः, इत्यत आह-विज्ञायते चेति । उपसंहरति-तत् कथमिति ।

 

सर्वदा सर्वकार्येषु नास्ति तेषाममङ्गलम् ।

येषां हृदिस्थो भगवान् मङ्गलायतनं हरिः ॥

 

इति स्मृतेः, शिष्टाचारपरिपालनाय विघ्नोपशान्तये च विशिष्टदेवतातत्त्वानुस्मरणलक्षणं मङ्गलाचरणं कृतमित्याह- अत्रोच्यत इति । किं तत्र प्रमाणमिति ? अत आह- युष्मदस्मदित्यादीति । इत्यन्तमेव भाष्यं प्रमाणमित्यर्थः, मङ्गलाचरणमिति वा ।

कथमिदं विशिष्टदेवतानुस्मरणं गमयतीति ? तत्राह - अस्य चायमर्थ इति । ननु ने विशुद्धात्मतत्त्वदेवता अनुस्मर्यते, किन्त्वध्यासाभावो वर्ण्यत इति । सत्यम् । तादर्थ्ये तत्त्वमप्यनुस्मर्यत इत्याह- तत् कथंचन इति । ननु अन्यपरत्वात् देवतानुस्मृतिरविवक्षित न कार्यकरीति; नेत्याह - तदन्यपरादेवेति । अन्यार्थमपि देवतानुस्मरणं स्वभावादेव विघ्नोपपूवं धक्ष्यति, धूमार्थ इव वह्निः तृणादिकमित्यभिप्रायः । व्याख्येयत्व प्रतिपादितमुपसंहरति—–तस्मादिति । अन्यार्थप्रवृत्तेन 'युष्मदस्मदि 'त्यादिपदद्वयमर्थाद् व्याख्यातम्।

****************

No comments:

Post a Comment