SANS-H-CC-04(Section-C)
UNIT-I
-:भाषासु संस्कृतभाषा/
or
संस्कृत-भाषाया: महत्वम् :-
संस्कृतभाषा--
इह संसारे खलु विविधाः भाषाः सन्ति | तासु सर्वासु भाषासु संस्कृतभाषा सर्वोत्तोमा | भारती, सुरभारती, अमरभारती, अमरवाणी, सुरवाणी, गीर्वाणवाणी, गीर्वाणी, देववाणी, देवभाषा, संस्कृता वाक्, दैवीवाक् इत्यादिभिः नामभिः एतद्भाषा प्रसिद्धा।
सम्यक् परिष्कृतं शुद्धमर्थाद् दोषरहितं व्याकरणेन संस्कारितं वा यत्तदेव संस्कृतम्। एवञ्च सम्-उपसर्गपूर्वकात् कृधातोर्निष्पन्नोSयं शब्द संस्कृतभाषेति नाम्रा सम्बोध्यते। इयमेव भाषा सर्वासां भारतीयभाषाणां जननी, भारतीयसंस्कृतेः प्राणस्वरूपा, भारतीयधर्मदर्शनादिकानां प्रसारिका, सर्वास्वपि विश्वभाषासु प्राचीनतमा सर्वमान्या च मन्यते।
संस्कृतस्य बिशिष्टता-
‘संस्कृतं नाम दैवीवागन्याख्याता महर्षिभि:’ | देवाः संस्कृतभाषायामेव व्यवहरन्ति|धर्मस्य संरक्षणेन प्रोत्साहणेन च संस्कृतं ‘देवभाषा’ पदमलभत् | अस्माकं समस्तमपि प्राचीनं साहित्यं संस्कृतभाषायामेव रचितमस्ति, समस्तमपि वैदिकसाहित्यं रामायणं महाभारतं पुराणानि दर्शनग्रन्थाः स्मृतिग्रन्थाः काव्यानि नाटकानि गद्य-नीति-आख्यानग्रन्थाश्च अस्यामेव भाषायां लिखिताः प्राप्यन्ते। गणितं,ज्योतिषं, काव्यशास्त्रमायुर्वेदः,अर्थशास्त्रं राजनीतिशास्त्रं छन्दःशास्त्रं ज्ञान-विज्ञानं तत्वजातमस्यामेव संस्कृतभाषायां समुपलभ्यते। अनेन संस्कृतभाषायाः विपुलं गौरवं स्वमेव सिध्यति।
भारतात्मा- संस्कृतम्-
संस्कृतं भारातीयसंस्कृतेः आत्मा | अनया भाषया एव भारातीय-संस्कृतिः सुप्रतिस्ठिता अस्ति | तदुक्तं – ‘भारतस्य प्रतिष्ठे द्वे संस्कृतं संस्कृतिस्तथा’ | बालकस्य जननात् आरभ्य: क्रियमाणाः जातकर्म – नामकरण- अन्नप्राशनादि –संस्कारा संस्कृतेन एव विधीयते |संस्कृते: संरक्षणाय संस्कृतभाषा अनिवार्या | संस्कृतेन सह संस्कृतेः संबन्धः यदि विच्छिन्नो भवति,तर्हि भारातीयसंस्कृतेः संरक्षणं न भवति एव | अतएवोक्तम् –
“संस्कृतेन सुसमपन्नं भारतं भारतमुच्यते |
संस्कृतेन विना देशः केवलं चेण्डियोच्यते ” ||
भारतीयानां विश्वासानुसारं सृष्टिकर्तुः ब्रह्मणः मुखात् वेदमयी संस्कृतवाणी निस्ससार-
“अनादिनिधना नित्या वागुत्सृष्टा स्वयम्भुवा ।
आदौ वेदमयी दिव्या यत: सर्वा: प्रवृत्तयः”।।
प्राचीनकाले इयं भाषा लोकभाषा आसीत् । अनया च सम्पूर्णभारतम् एकसूत्रे निबद्धम् आसीत् । तदा सर्वे जनाः संस्कृतेन वदन्ति स्म । यथा अशुद्धप्रयोगं श्रुत्वा कथयति भारवाहक: - ‘स्कन्धं न बाधते राजन् यथा बाधति बाधते’ इति ।
वर्तमाने वैज्ञानिकयुगे कम्पूटरस्य महत्त्वं सर्वजनविदितम् ।अस्य कम्पूटरस्य कृते संस्कृतभाषायाः प्रयोगम् उत्कृष्टमिति वैज्ञानिकै: उद्घोषितम् ।अक्षयं शब्दभाण्डारं दृष्ट्वा भविष्ये कम्प्यूटारयन्त्रं चालनाय अस्याः भाषायाः महत्त्वं निःसंदिग्धमिति मन्यते ।
उपसंहारः --
संस्कृत भाषायाः माहात्म्यंम् अनस्वीकार्यम् ।अधुना केवलम् इयं संस्कृतभाषैव भारतस्य उन्नतिं कर्तुं समर्था दृश्यते ।एतदर्थं व्यवहारिकजीवने संस्कृतस्य कथ्यभाषावत् सरलीकरणं कर्तव्यम् ।संस्कृतं जनप्रियकर्तुं राज्यसर्वकारै: केन्द्रीयसर्वकारेण च सह सर्वैः संस्कृतप्रेमिकै: सर्वथा निरन्तरं यतनीयम् ।
-------------
No comments:
Post a Comment