SANS-H-CC-T-03
Write a note on बाणभट्टः and his work(in Sanskrit)
कबि-परिचय: -
महाकविः बाणभट्टः गद्यकाव्यजगतः चक्रवर्ती स्वरुप: | बाणकविः वात्स्यायनमहर्षेः वंशे जातः । चित्रभानुः बाणस्य जनकः, जननी च राजदेवी । तढुक्तम् – “अलभत च चित्रभानुस्तेषां मध्ये राजदेव्यभिधानायां ब्राह्मण्यां बाणमात्मजम्” इति । शोणानदीतीरे प्रीतिकूटम् इति ग्रामः बाणस्य जन्मस्थानम् । बाल्ये एव तस्य जननी स्वर्गं गता । चतुर्दशीये वयसि जनकोऽपि दिवङ्गतः ।अनाथोऽपि सः संस्कृताध्ययने भूरिपरिश्रमत्वात् विद्यानाथः सञ्जातः । अनेकैर्वयस्यैः सह नानादिग्देशान् भ्रामं भ्रामं ततः स्थाण्वीश्वराधिपस्य हर्षवर्धनस्य सविधे आस्थानकविपदवीमारूढः, ’भट्ट’ इति पदव्या समलङ्कृतोऽभूत् ।भूषणभट्टः बाणभट्टस्य पुत्रः आसीत् |
आविर्भावकालः –
श्रीहर्षवर्धनसार्वभौमस्य कालः ६०६ - ६४८ ईशवीयाव्ढे तु प्रसिद्धम् एव । अतः बाणस्यापि कालः सप्तमशतकस्यादिभाग: इति निर्णेतुं शक्यते ।संस्कृतप्राचीनकविषु बाण एवैतादृशो कविःयस्य स्थितिकालः सुस्पष्टः |
कृतयः –
हर्षचरितं कादम्बरीति काब्यद्वयम् बाणेन बिरचितम् | हर्षचरितकादम्बर्यतिरिक्तमपि कवेरस्य , शिवाष्टकं,चण्डीशतकं,मुकुटवीडितकं , शारदचन्द्रिका , पार्वतीपरिणयः च कृतित्वेन गृह्यन्ते |
हर्षचरितम्
हर्षचरितं हि अष्टासुच्छ्वासेषु विभक्ता आख्यायिका । तत्र प्रथमद्वितीयोच्छ्वासयोः वंशवर्णनं, तृतीये हर्षपूर्वजपुरुषस्य पुष्पभूतेर्वर्णनं, चतुर्थे प्रभाकरवर्धनस्य शौर्यवर्णनं, राज्यवर्धन-हर्षवर्धनयोर्जन्म, राज्यश्रियो जन्म, तस्याः ग्रहवर्मणा सह विवाहश्च । पञ्चमे राज्यवर्धनस्य हुणविजयार्थं प्रस्थानं प्रभाकरवर्धनस्य निधनञ्च । षष्ठे राज्यवर्धनस्य प्रत्यागमनं, मालवनरशेन ग्रहवर्मणो हत्या, राज्यश्रियाः निरोधः, राज्यवर्धनेन मालवराजपराजयः, गौडशेने शशाङ्केन राज्यवर्धनस्यच्छलेन वधः, सप्तमे हर्षस्य गौडनरेशवधाय प्रस्थानं, राज्यश्रिया विन्ध्याटव्यां पलायनं तदन्वेषणाय हर्षस्य प्रयासः, अष्टमे राज्यश्रिया अन्वेषणं तया सह हर्षस्य प्रत्यागमनञ्च । ग्रन्थस्यास्यापूर्णता स्पष्टरूपेण द्योतते । सम्भवति हर्षनिधनानन्तरं कविरेतदन्तरकथानिबन्धने मन्दादरोऽभूत् ।
कादम्बरी
कादम्बरी कवेः चरमा कृतिः । ग्रन्थोऽयं कथामयः ।तथापि कवेः कल्पनामौलिकता अव्याहता। यद्यपि बाणस्योभे एव कृती सर्वातिशायिनी तथापि तयोः कादम्बरी प्रशस्यतरा मन्यते। कादम्बर्याः पात्रचित्रणं, रसपरिपाको वस्तुविन्यासश्च 'बाणोच्छिष्टं जगत्सर्वम्' इत्युक्तिं चरितार्थयन्ति।
विशालायाः पालकस्य राज्ञः शूद्रकस्य सभायां कदाचिदेका चाण्डालकन्या शम्पायननामकं पिञ्जरस्थं शुकमानीय समर्पयति । स च शुकः मनुष्यवाचा सुखोपविष्टं राजानमात्मकथां श्रावयति । कथान्ते च स्मृतपूर्वजन्मवृत्तान्तः राजा पूर्वजन्मदेहं प्राप्नोति शुकश्च । कथैषा जन्मत्रयवृत्तान्तानुवर्तिनी। अत्र कथैव कथान्तरमुद्भावयति ।
शुकः स्ववृत्तान्तं श्रावयन् कथयति यत्सः यदा जातस्तदैव मातोपरता। पिता च किञ्चित्कालानन्तरं वृद्धलुब्धकेन केनापि हतः । सः तु वृक्षादधः पतितः कथञ्चित् धृतजीवितः केनाऽपि मुनिना दयया जावाल्याश्रमं प्रापितः । जावालिस्तत्पूर्वजन्मवृत्तान्तं तत्र श्रावितवानित्थम् । उज्जयिन्यां तारापीडो नाम राजाऽऽसीत् । तस्य पत्न्यां विलासवत्यां चन्द्रापीडो नाम कुमारः समुत्पन्नः । तदैव तन्मन्त्रिणः शुकनासस्यापि वैशम्पायननामा पुत्रो जातः । शिक्षानन्तरं शुकनासेनः बहूपदिष्टः कुमारो यौवराज्येऽभिषिक्तः इन्द्रायुधनामकमश्वमारुह्य मित्रेण सेविकया पत्रलेखया सह दिग्विजयार्थं निर्गतः । तत्र क्रमे स महाश्वेतां ददर्श । महाश्वेता स्वाशक्तपुण्डरीकवृत्तान्तं श्रावयित्वा तं कादम्बरीवृत्तान्तमपि अकथयन्, कादम्बरी चन्द्रापीडौ परस्परमनुरक्तावभूताम् । एतदन्तराले पितुराज्ञया चन्द्रापीडः उज्जयिनीं प्रत्यागतः, वैशम्पायनस्तु महाश्वेतासमीपे पत्रलेखा च कादम्बरीपार्श्वे स्थिता । पश्चाच्च पत्रलेखा प्रत्यागत्य कादम्बरीविरहावस्थां न्यवेदयत्।
बाणेन कथायां एतावानेव भागो गुम्फितः । तदनन्तरवर्त्तिनी तु कथा तत्तनयेन भूषणभट्टेन गुम्फिता। बाणप्रणीतभागः कथायाः पूर्वार्द्धः स्मृतः, भूषणभट्टगुम्फितश्चोत्तरभागः । कादम्बर्याः विरहव्यथां पत्रलेखातः श्रुत्वा तदाकृष्टमनाश्चन्द्रापीडस्तया सह पुनस्तत्रागतः । तत्र स महाश्वेताशापेन वैशम्पायनं शुकभूतं श्रुत्वा विरहातुरस्तत्रैव प्राणांस्तत्याज । तन्मृतशरीरमालिङ्ग्य म्रियमाणां कादम्बरीं भविष्यत्समागमसन्देशेन नभोवाणी मरणान्निवारयामास । सरसि इन्द्रायुधोऽप्यगाहत । ततश्च कपिजलो बहिरागत्य सर्वं रहस्यं श्रावयति।
मूल्याङ्कनम् -
बाणकवेः शैली तावत् पाञ्चाली इति रीतिपदेनाभिधीयते । बाणकवेः शैल्याः प्रधानांशाः श्लोकेस्मिन् सूचिताः सन्ति –
मधुरस्वरवर्णपदा रसभाववती जगन्मनो हरति ।
तत्किं तरुणी नहि नहि वाणी बाणस्य मधुरशीलस्य ॥
समासभूयिष्ठ-प्रयोगाः, अमोघं काव्यसौन्धर्यं नखशिखान्तवर्णनम् हृदयस्पर्शिन्यश्च भावनाः, भाषायाश्च प्रभुत्वं बाणकवेः शैल्याः रमणीयांशाः सन्ति । बाणाभट्टेन यद्यपि हर्षचरितं कादम्बरीति गद्यकाव्यद्वयं लिखितं तथापि एकेनैव कादम्बरी-गद्यकाव्येन बाणकविरजरामरो जात: इत्यत्र नैव सन्देहः । यतो हि – ‘कादम्बरी रसज्ञानामाहारोऽपि न रोचते’ इति तस्य वैशिष्ट्यं जेगीयते । ‘वाणी बाणो बभूवेति’ इत्युक्तरीत्या बाणास्तु सरस्वत्याः अवतार इत्येव मन्यते ।
----------------
No comments:
Post a Comment